वांछित मन्त्र चुनें

भु॒रन्तु॑ नो य॒शस॒: सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता । नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुर॑: ॥

अंग्रेज़ी लिप्यंतरण

bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā | naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ ||

पद पाठ

भु॒रन्तु॑ । नः॒ । य॒शसः॑ । सोतु॑ । अन्ध॑सः । ग्रावा॑णः । वा॒चा । दि॒विता॑ । दि॒वित्म॑ता । नरः॑ । यत्र॑ । दु॒ह॒ते । काम्य॑म् । मधु॑ । आ॒ऽघो॒षय॑न्तः । अ॒भितः॑ । मि॒थः॒ऽतुरः॑ ॥ १०.७६.६

ऋग्वेद » मण्डल:10» सूक्त:76» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:9» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यशसः-ग्रावाणः) यशस्वी विद्वान् (नः) हमारे लिए (अन्धसः सोतु) आध्यानीय-भलीभाँति ध्यान करने योग्य परमात्मा के उपासनीय स्वरूप को (भुरन्तु) उपदिष्ट करें (दिवित्मता) दीप्तिवाली (दिविता) दिव्य (वाचा) वेदवाणी के द्वारा उपदेश करें (यत्र) जिसमें स्थित (काम्यं मधु) कमनीय ज्ञानमधु को (नरः) जीवन्मुक्त पुरुष (दुहते) दुहते हैं-निकालते हैं (मिथस्तुरः) परस्पर शीघ्रता करते हुए (आघोषयन्तः) सर्वतः घोषित करते हुए, प्रसिद्ध करते हुए वर्तते हैं ॥६॥
भावार्थभाषाः - जीवन्मुक्त जन ध्यान करने योग्य परमात्मा के स्वरूप को दिव्यवाणी वेद के द्वारा समझाते हैं, जिस वेदवाणी में ज्ञानमधु भरा हुआ है, यह घोषित करते हुए उसे प्रकट करते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यशसः-ग्रावाणः) यशस्विनः ‘अकारो मत्वर्थीयः’ विद्वांसः “विद्वांसो ग्रावाणः” [श० ३।९।३।१४] (नः-अन्धसः-सोतु-भुरन्तु) अस्मभ्यमाध्यानीयस्य परमात्मनः स्तोतव्यमुपासनीयं स्वरूपं भरन्तु “उकारश्च्छान्दसः” (दिवित्मता दिविता वाचा) दीप्तिमत्या दीव्यया वेदवाचा धारयन्तु-उपदिशन्तु (यत्र) यस्यां स्थितं (काम्यं मधु नरः-दुहते) कमनीयं ज्ञानमधु जीवन्मुक्ता पुरुषाः “नरो ह वै देवविशः” [जै० १।८९] दुहन्ति-निःसारयन्ति (मिथस्तुरः-अभितः-आघोषयन्तः) परस्परं शीघ्रतां कुर्वन्तः सर्वतो घोषयन्तः प्रसिद्धं कुर्वन्तो वर्त्तन्ते ॥६॥